Vishnumaya Stotram
Stotram: Vishnumaya Stotram.

गङ्गाधरसुतं देवं शिवशक्तिस्वरूपिणम् ।
पार्वतीहृदयानन्दं विष्णुमायां जगद्गुरुम् ॥ १ ॥
शुद्धाम्बरलसद्गात्रं नीलाम्बरसुशोभितम् ।
वीरघोराट्टहासं तं विष्णुमायां जगद्गुरुम् ॥ २ ॥
रत्नकाञ्चनसंयुक्तं हारकुण्डलभूषितम् ।
विलसद्ब्रह्मसूत्रं तं विष्णुमायां जगद्गुरुम् ॥ ३ ॥
रत्नकङ्कणकेयूरवनमालाविभूषितम् ।
मन्दस्मितमुखं वन्दे विष्णुमायां जगद्गुरुम् ॥ ४ ॥
श्रीचक्रबीजसंपूज्यं विभुं माहिषवाहनम् ।
गन्धर्वविपिनावासं विष्णुमायां जगद्गुरुम् ॥ ५ ॥
नीलोत्पललसन्नेत्रं सच्चिदानन्दरूपिणम् ।
मकुटादिधरं देवं विष्णुमायां जगद्गुरुम् ॥ ६ ॥
स्थूलसूक्ष्ममहाकायं आद्यन्तरहितं परम् ।
सर्वपापहरं देवं विष्णुमायां जगद्गुरुम् ॥ ७ ॥
भूतनाथं महारौद्रं सर्वतेजःप्रदीपनम् ।
नृत्तप्रियं मदोन्मत्तं विष्णुमायां जगद्गुरुम् ॥ ८ ॥
सर्वज्ञं सर्ववरदं देवब्राह्मणपूजितम् ।
सर्वमुक्तिप्रदं देवं विष्णुमायां जगद्गुरुम् ॥ ९ ॥
श्रीविष्णुमाया-नवकं भुक्तिमुक्तिप्रदायकम् ।
सर्वाभीष्टप्रदं पुण्यं विष्णुमायां भजे सदा ॥ १० ॥
Also Read this: श्री कनकधारा स्तोत्रम्