Clickable Icon and Text 🔔
अभी पढ़े: भए प्रगट कृपाला दीनदयाला

श्री मातङ्गी स्तोत्रम् (Shree Matangi Stotram)

Matangi Stotram

Stotram: श्री मातङ्गी स्तोत्रम् (Matangi Stotram).

ईश्वर उवाच ।
आराध्य मातश्चरणाम्बुजे ते
ब्रह्मादयो विस्तृतकीर्तिमापुः ।
अन्ये परं वा विभवं मुनीन्द्राः
परां श्रियं भक्तिभरेण चान्ये ॥ १


नमामि देवीं नवचन्द्रमौले-
-र्मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायप्राप्तिप्रतिपादितार्थं
प्रबोधयन्तीं प्रियमादरेण ॥ २ ॥


विनम्रदेवासुरमौलिरत्नै-
-र्नीराजितं ते चरणारविन्दम् ।
भजन्ति ये देवि महीपतीनां
व्रजन्ति ते सम्पदमादरेण ॥ ३ ॥


कृतार्थयन्तीं पदवीं पदाभ्या-
-मास्फालयन्तीं कृतवल्लकीं ताम् ।
मातङ्गिनीं सद्धृदयां धिनोमि
लीलांशुकां शुद्धनितम्बबिम्बाम् ॥ ४ ॥


तालीदलेनार्पितकर्णभूषां
माध्वीमदोद्घूर्णितनेत्रपद्माम् ।
घनस्तनीं शम्भुवधूं नमामि
तटिल्लताकान्तिमनर्घ्यभूषाम् ॥ ५ ॥


चिरेण लक्ष्यं नवलोमराज्या
स्मरामि भक्त्या जगतामधीशे ।
वलित्रयाढ्यं तम मध्यमम्ब
नीलोत्पलांशुश्रियमावहन्त्याः ॥ ६ ॥


कान्त्या कटाक्षैः कमलाकराणां
कदम्बमालाञ्चितकेशपाशम् ।
मातङ्गकन्यां हृदि भावयामि
ध्यायेयमारक्तकपोलबिम्बम् ॥ ७ ॥


बिम्बाधरन्यस्तललामवश्य-
-मालीललीलालकमायताक्षम् ।
मन्दस्मितं ते वदनं महेशि
स्तुत्यानया शङ्करधर्मपत्नीम् ॥ ८ ॥


मातङ्गिनीं वागधिदेवतां तां
स्तुवन्ति ये भक्तियुता मनुष्याः ।
परां श्रियं नित्यमुपाश्रयन्ति
परत्र कैलासतले वसन्ति ॥ ९ ॥


उद्यद्भानुमरीचिवीचिविलसद्वासो वसानां परां
गौरीं सङ्गतिपानकर्परकरामानन्दकन्दोद्भवाम् ।
गुञ्जाहारचलद्विहारहृदयामापीनतुङ्गस्तनीं
मत्तस्मेरमुखीं नमामि सुमुखीं शावासनासेदुषीम् ॥ १० ॥

इति श्रीरुद्रयामले मातङ्गी स्तोत्रम् ।

Also Read this: श्री भगवती स्तोत्रम्

Share it to someone:
Scroll to Top